स्तोत्रे

1 ✔👇हे इतरांही शेअर करा 👇
श्री पांडुरंग अष्टक

।। श्री पांडुरंगाष्टकम् प्रारम्भ ।।

गायक : पंढरीनाथ म. आरू
गायक : अनुराधा पौडवाल
गायक : सौरभ वाखरे, धनंजय म्हसकर, रोहन देशमुख, संपदा माने, कृत्तिका बोरकर, अवंतिका बपोरिकर, क्षितिजा जोशी.

|| सार्थ श्री पांडुरंग अष्टक ||

गायक : देवी वैभवश्रीजी.

महायोगपीठे तटे भीमरथ्यां ।
वरं पुण्डरीकाय दातुं मुनीन्द्रैः ।
समागत्य तिष्ठन्तमानंदकंदं ।
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ।।१।।

तडिव्दाससं नीलमेघावभासं ।
रमामंदिरं सुंदरं चित्प्रकाशम् ।
वरं त्विष्टिकायां समन्यस्तपादं ।
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ।।२।।

प्रमाणं भवाब्धे रिदंमामकानां ।
नितम्बःकराभ्यां धृतो येन तस्मात् ।
विधातुर्वसत्यै धृतो नाभिकोशः
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ।।३।।

स्फुरत्कौस्तुभालङ्कृतं कण्ठदेशे ।
श्रिया जुष्टकेयूरकं श्रीनिवासम् ।
शिवं शांतमीड्यं वरं लोकपालं ।
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ।।४।।

शरच्चंद्र बिंबा ननं चारुहासं ।
लसत्कुण्डला क्रांत गण्ड स्थलांङ्म् ।
जपारागबिंबाधरं कञ्जनेत्रं ।
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्।।५।।

किरीटोज्वलत्सर्वदिक्प्रांतभागं ।
सुरैरर्चितं दिव्यरत्नैरनर्घैः ।
त्रिभङ्गाकृतिं बर्हमाल्यावतंसं ।
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्।।६।।

विभुं वेणुनादं चरन्तं दुरन्तं ।
स्वयं लीलया गोपवेषं दधानम् ।
गवां वृन्दकानन्ददं चारुहासं ।
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ।।७।।

अजं रुक्मिणीप्राणसञ्जीवनं तं ।
परं धाम कैवल्यमेकं तुरीयम् ।
प्रसन्नं प्रपन्नार्तिहं देवदेवं ।
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ।।८।।

स्तवं पाण्डुरंगस्य वै पुण्यदं ये ।
पठन्त्येकचित्तेन भक्त्या च नित्यम् ।
भवांभोनिधिं ते वितीर्त्वान्तकाले ।
हरेरालयं शाश्वतं प्राप्नुवन्ति ।।

।।इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्यश्रीमच्छङ्करभगवतः कृतौपाण्डुरङ्गाष्टकंसंपूर्णम् ।।
पांडूरंग अष्टक समाप्त

|| श्री ज्ञानेश्वराष्टकं स्तोत्रम् ||

।। श्री ज्ञानेश्वराष्टकं स्तोत्रम् प्रारम्भ ।।

रचना : श्री स्वामी नृसिंह सरस्वती
गायक : पंडित संजीव अभ्यंकर

कलावज्ञजीवोद्धरार्थावतारं ।
कलाङ्काङ्क्तेजोधि कामोदिवक्त्रम्
खलानीशवादापनोदार्हदक्षम् ।
समाधिस्तमूर्तिं भजे ज्ञानदेवम्।।१।।

अलङ्कापुरी रम्य सिंहासनस्थं ।
पदाम्भोजतेजसःस्फ़ुरद्दिक्प्रदेशम्
विधीन्द्रादिदेवै:सदा स्तुयमानं ।
समाधिस्तमूर्तिं भजे ज्ञानदेवम् ।।२।।

गदाशङ्खचक्रादिभिर्भाविताङ्गम् ।
चिदानंदसंलक्ष्यनाट्यस्वरुपम् ।
यमाद्दष्टभेदाड़ग़योगप्रवीणं ।
समाधिस्तमूर्तिं भजे ज्ञानदेवम् ।।३।।

लुलायस्यवक्राच्छ्रु तिं पाठ्यन्तं ।
प्रतिष्ठान पुर्यासुधीसंघसेव्यम् ।
चतुर्वेदतन्त्रेतिहासादिपूर्णं ।
समाधिस्तमूर्तिं भजे ज्ञानदेवम् ।।४।।

सदापंढरीनाथपादाब्जभृङ्गं
निवृत्तीश्वरानुग्रहात्प्राप्ततत्वम् ।।
महेन्द्रायणीतीरभूमौ वसन्तं ।
समाधिस्तमूर्तिं भजे ज्ञानदेवम् ।।५।।

रणेकृष्णबीभत्सुसंवादभूतो ।
रुगीतार्थबोधाय ज्ञानेश्वरीवै ।।
कृति निर्मिति:येन च प्राकृतोक्त्या ।
समाधिस्तमूर्तिं भजे ज्ञानदेवम् ।।६।।

चिराभ्याससंयोग सिद्धेर्बलाढय: ।
बृहदव्याघ्रशायी महानचांगदेव : ।।
निरीक्ष्याग्रकुड्यागतंवीतगर्व: ।
समाधिस्तमूर्तिं भजे ज्ञानदेवम् ।।७।।

क्वचित्तीर्थयात्रा मिश्रेणेतिनित्वा ।
स्वयंवेद्दतत्वंन जानासि विष्णो: ।।
यत:प्रेषित: खेचर नामदेव: ।
समाधिस्तमूर्तिं भजे ज्ञानदेवम् ।।८।।

।। श्री ज्ञानेश्वराष्टकं स्तोत्रम् समाप्तम् ।।

1 ✔👇हे इतरांही शेअर करा 👇

Leave a Reply

Your email address will not be published. Required fields are marked *