Category पंचदशी-सर्व-परिच्छेद

सार्थ पंचदशी मराठी चतुर्दशः परिच्छेदः- ब्रह्मानन्दे विद्यानन्दः श्लोक २१ ते ३५

सार्थ पंचदशी सूची सत्ता चितिर्द्वयं व्यक्तं धीवृत्त्योर्घोरमूढयोः ।शान्तवृत्तौ त्रयं व्यक्तं मिश्रं ब्रह्मेत्थमीरितम् ॥ २१॥अमिश्रं ज्ञानयोगाभ्यां तौ च पूर्वमुदीरितौ ।आद्येऽध्याये योगचिन्ता ज्ञानमध्यायोर्द्वयोः ॥२२॥असत्ता जाड्यदुःखे द्वे मायारूपं त्रयं त्विदम् ।असत्ता नरशृङ्गादौ जाड्यं काष्ठशिलादिषु ॥२३॥घोरमूढधियोर्दुःखमेवं माया विजृम्भिता ।शान्तादि बुद्धिवृत्त्यैक्यान्मिश्रं ब्रह्मेति कीर्तितम् ॥२४॥एवं स्थितेऽत्र…

सार्थ पंचदशी मराठी चतुर्दशः परिच्छेदः- ब्रह्मानन्दे विद्यानन्दः श्लोक ४१ ते ६०

सार्थ पंचदशी सूची तदेतत्कृतकृत्यत्वं प्रतियोगिपुरःसरम् ।अनुसन्दधदेवायमेवं तृप्यति नित्यशः ॥ ४१ ॥दुःखिनोऽज्ञाः संसरन्तु कामं पुत्राद्यपेक्षया ।परमानन्दपूर्णोऽहं संसरामि किमिच्छया ॥ ४२ ॥अनुतिष्ठन्तु कर्माणि परलोकयियासवः ।सर्वलोकात्मकः कस्मादनुतिष्ठामि किं कथम् ॥ ४३ ॥व्याचक्षतां ते शास्त्राणि वेदानध्यापयन्तु वा ।येऽत्राधिकारिणो मे तु नाधिकारोऽक्रियत्वतः ॥ ४४ ॥निद्राभिक्षे…

सार्थ पंचदशी मराठी चतुर्दशः परिच्छेदः- ब्रह्मानन्दे विद्यानन्दः श्लोक २१ ते ४०

सार्थ पंचदशी सूची युवा रूपी च विद्यावान्नीरोगो दृढचित्तवान् ।सैन्योपेतः सर्वपृथ्वीं वित्तपूर्णां प्रपालयन् ॥ २१ ॥सर्वैर्मानुष्यकैर्भोगैः सम्पन्नस्तृप्तभूमिपः ।यमानन्दमवाप्नोति ब्रह्मविच्च तमश्नुते ॥ २२ ॥मर्त्येभोगे द्वयोर्नास्ति कामस्तृप्तिरतः समा ।भोगान्निष्कामतैकस्य परस्यापि विवेकतः ॥ २३ ॥ श्रोत्रियत्वाद्वेदशास्त्रैर्भोग्यदोषानवेक्षते ।राजा बृहद्रथो दोषांस्तान् गाथाभिरुदाहरत् ॥ २४ ॥देहदोषाश्चित्तदोषा भोग्यदोषा…

सार्थ पंचदशी मराठी चतुर्दशः परिच्छेदः- ब्रह्मानन्दे विद्यानन्दः श्लोक १ ते २०

सार्थ पंचदशी सूची योगेनात्मविवेकेन द्वैतमिथ्यात्वचिन्तया ।ब्रह्मानन्दं पश्यतोऽथ विद्यानन्दो निरूप्यते ॥ १ ॥विषयानन्दवद्विद्यानन्दोधीवृत्तिरूपकः ।दुःखाभावादिरूपेण प्रोक्त एष चतुर्विधः ॥ २ ॥दुःखाभावश्च कामाप्तिः कृतकृत्योऽहमित्यसौ ।प्राप्तप्राप्योऽहमित्येव चातुर्विध्यमुदाहृतम् ॥ ३ ॥ऐहिकं च आमुष्मिकं चेत्येवं दुःखं द्विधेरितम् ।निवृत्तिमैहिकस्याह बृहदारण्यकं वचः ॥ ४ ॥आत्मानं चेद्विजानीयादयमस्मीति पूरुषः ।किमिच्छन्कस्य…

सार्थ पंचदशी मराठी त्रयोदशः परिच्छेदः- ब्रह्मानन्दे अद्वैतानन्दः श्लोक ८१ ते १०४

सार्थ पंचदशी सूची यावद्यावदवज्ञा स्यात्तावत्तावत्तदीक्षणम् ।यावद्यावद्वीक्ष्यते तत्तावत्तावदुभे त्यजेत् ॥ ८१ ॥तदभ्यासेन विद्यायां सुस्थितायामयं पुमान् ।जीवन्नेव भवेन्मुक्तो वपुरस्तु यथा तथा ॥ ८२ ॥तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् ।एतदेकपरत्वं च तदभ्यासं विदुर्बुधाः ॥ ८३ ॥वासनानेककालिना दीर्घकालं निरन्तरम् ।सादरं चाभ्यस्यमाने सर्वथैव निवर्तते ॥ ८४ ॥मृच्छक्तिवत्…

सार्थ पंचदशी मराठी त्रयोदशः परिच्छेदः- ब्रह्मानन्दे अद्वैतानन्दः श्लोक ६१ ते ८०

सार्थ पंचदशी सूची एकमृत्पिण्डविज्ञानात्सर्वमृण्मयधीर्यथा ।तथैकब्रह्मबोधेन जगद्बुद्धिर्विभाव्यताम् ॥ ६१ ॥सच्चित्सुखात्मकं ब्रह्म नामरूपात्मकं जगत् ।तापनीये श्रुतं ब्रह्म सच्चिदानन्दलक्षणम् ॥ ६२ ॥ सद्‌रूपमारुणिः प्राह प्रज्ञानं ब्रह्म बह्वृचाः ।सनत्कुमार आनन्दमेवमन्यत्र गम्यताम् ॥ ६३ ॥विचिन्त्य सर्वरूपाणि कृत्वा नामानि तिष्ठति ।अहं व्याकरवाणीमे नामरूपे इति श्रुतिः ॥…

सार्थ पंचदशी मराठी त्रयोदशः परिच्छेदः- ब्रह्मानन्दे अद्वैतानन्दः श्लोक ४१ ते ६०

सार्थ पंचदशी सूची निस्तत्त्वं भासमानं च व्यक्तमुत्पत्तिनाशभाक् ।तदुत्पत्तौ तस्य नाम वाचा निष्पाद्यते नृभिः ॥ ४१ ॥व्यक्ते नष्टेऽपि नामैतन्नृवक्त्रेष्वनुवर्तते ।तेन नाम्ना निरूप्यत्वाद्‌व्यक्तं तद्‌रूपमुच्यते ॥ ४२ ॥निस्तत्त्वत्वाद्विनाशित्वाद्वाचारम्भणनामतः ।व्यक्तस्य न तु तद्‌रूपं सत्यं किञ्चिन्मृदादिवत् ॥ ४३ ॥व्यक्तकाले ततः पूर्वमूर्ध्वमप्येकरूपभाक् ।स तत्त्वमविनाशं च सत्यं…

सार्थ पंचदशी मराठी त्रयोदशः परिच्छेदः- ब्रह्मानन्दे अद्वैतानन्दः श्लोक २१ ते ४०

सार्थ पंचदशी सूची आदौ मनस्तदनुबन्धविमोक्षदृष्टीःपश्चात्प्रपञ्चरचना भुवनाभिधाना ।इत्यादिका स्थितिरियं हि गता प्रतिष्ठा-माख्यायिका सुभगबालजनोदितेव ॥ २१ ॥बालस्य हि विनोदाय धात्री शक्ति शुभां कथाम् ।क्वचित्सन्ति महाबाहो राजपुत्रास्त्रयः शुभाः ॥ २२ ॥द्वौ न जातौ तथैकस्तु गर्भ एव न च स्थितः ।वसन्ति ते धर्मयुक्ता अत्यन्तासति…

सार्थ पंचदशी मराठी त्रयोदशः परिच्छेदः- ब्रह्मानन्दे अद्वैतानन्दः श्लोक १ ते २०

सार्थ पंचदशी सूची योगानन्दः पुरोक्तो यः स आत्मानन्द इष्यताम् ।कथं ब्रह्मत्वमेतस्य सद्वयस्येति चेच्छृणु ॥ १ ॥ आकाशादिस्वदेहान्तं तैत्तिरीयश्रुतीरितम् ।जगन्नास्त्यन्यदानन्दादद्वैतब्रह्मता ततः ॥ २ ॥आनन्दादेव तज्जातं तिष्ठत्यानन्द एव तत् ।आनन्द एव लीनं चेत्युक्तानन्दात्कथं पृथक् ॥ ३ ॥ कुलालाद्घट उत्पन्नो भिन्नश्चेति न शङ्क्यताम्…

सार्थ पंचदशी मराठी द्वादशः परिच्छेदः- ब्रह्मानन्दे आत्मानन्दः श्लोक ८१ ते ९०

सार्थ पंचदशी सूची यद्योगेन तदेवैति वदामो ज्ञानसिद्धये ।योगः प्रोक्तो विवेकेन ज्ञानं किं नोपजायते ॥ ८१ ॥ यत् साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।इति स्मृतं फलैकत्वं योगिनां च विवेकिनाम् ॥ ८२ ॥असाध्यः कस्यचिद्योगः कस्यचिज्ज्ञाननिश्चयः ।इत्थं विचार्यमार्गौ द्वौ जगाद परमेश्वरः ॥ ८३…