श्रीमद्भगवद्गीता गीता अध्याय अकरावा

1 ✔👇हे इतरांही शेअर करा 👇

गायक : उदय श्रेयस

॥ॐ श्री परमात्मने नमः ॥
॥अथ श्रीमद्भगवद्गीता ॥
॥अथ अथैकादशोऽध्यायः ॥
॥ विश्वरूपदर्शनयोगः ॥

अर्जुन उवाच।
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम्।
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम
 ॥११-१॥
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्
॥११-२॥
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर।
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम
॥११-३॥
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो।
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम्
॥११-४॥

श्रीभगवानुवाच।
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च
 ॥११-५॥


पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा।
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥
११-६॥
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम्।
मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि
॥११-७॥
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्
॥११-८॥

सञ्जय उवाच।
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः।
दर्शयामास पार्थाय परमं रूपमैश्वरम्
॥११-९॥
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम्।
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम्
॥११-१०॥


दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्।
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम्
॥११-११॥
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता।
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः
 ॥११-१२॥
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा
 ॥११-१३॥
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः।
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत
॥११-१४॥

अर्जुन उवाच।
पश्यामि देवांस्तव देव देहे
        सर्वांस्तथा भूतविशेषसङ्घान्।
ब्रह्माणमीशं कमलासनस्थ-
        मृषींश्च सर्वानुरगांश्च दिव्यान्
॥११-१५॥


अनेकबाहूदरवक्त्रनेत्रं
        पश्यामि त्वां सर्वतोऽनन्तरूपम्।
नान्तं न मध्यं न पुनस्तवादिं
 पश्यामि विश्वेश्वर विश्वरूप
॥११-१६॥
किरीटिनं गदिनं चक्रिणं च
 तेजोराशिं सर्वतो दीप्तिमन्तम्।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्
 दीप्तानलार्कद्युतिमप्रमेयम्
॥११-१७॥
त्वमक्षरं परमं वेदितव्यं
 त्वमस्य विश्वस्य परं निधानम्।
त्वमव्ययः शाश्वतधर्मगोप्ता
 सनातनस्त्वं पुरुषो मतो मे
॥११-१८॥
अनादिमध्यान्तमनन्तवीर्य-
        मनन्तबाहुं शशिसूर्यनेत्रम्।
पश्यामि त्वां दीप्तहुताशवक्त्रं
        स्वतेजसा विश्वमिदं तपन्तम्
 ॥११-१९॥
द्यावापृथिव्योरिदमन्तरं हि
 व्याप्तं त्वयैकेन दिशश्च सर्वाः।
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं
 लोकत्रयं प्रव्यथितं महात्मन्
 ॥११-२०॥


अमी हि त्वां सुरसङ्घा विशन्ति
        केचिद्भीताः प्राञ्जलयो गृणन्ति।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः
 स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः
 ॥११-२१॥
रुद्रादित्या वसवो ये च साध्या
        विश्वेऽश्विनौ मरुतश्चोष्मपाश्च।
गन्धर्वयक्षासुरसिद्धसङ्घा
 वीक्षन्ते त्वां विस्मिताश्चैव सर्वे
 ॥११-२२॥
रूपं महत्ते बहुवक्त्रनेत्रं
        महाबाहो बहुबाहूरुपादम्।
बहूदरं बहुदंष्ट्राकरालं
        दृष्ट्वा लोकाः प्रव्यथितास्तथाहम्
॥११-२३॥
नभःस्पृशं दीप्तमनेकवर्णं
        व्यात्ताननं दीप्तविशालनेत्रम्।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा
 धृतिं न विन्दामि शमं च विष्णो
 ॥११-२४॥
दंष्ट्राकरालानि च ते मुखानि
        दृष्ट्वैव कालानलसन्निभानि।
दिशो न जाने न लभे च शर्म
 प्रसीद देवेश जगन्निवास
 ॥११-२५॥


अमी च त्वां धृतराष्ट्रस्य पुत्राः
        सर्वे सहैवावनिपालसङ्घैः।
भीष्मो द्रोणः सूतपुत्रस्तथासौ
 सहास्मदीयैरपि योधमुख्यैः
॥११-२६॥
वक्त्राणि ते त्वरमाणा विशन्ति
        दंष्ट्राकरालानि भयानकानि।
केचिद्विलग्ना दशनान्तरेषु
        सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः
 ॥११-२७॥
यथा नदीनां बहवोऽम्बुवेगाः
        समुद्रमेवाभिमुखा द्रवन्ति।
तथा तवामी नरलोकवीरा
        विशन्ति वक्त्राण्यभिविज्वलन्ति
 ॥११-२८॥
यथा प्रदीप्तं ज्वलनं पतङ्गा
        विशन्ति नाशाय समृद्धवेगाः।
तथैव नाशाय विशन्ति लोकास्-
 तवापि वक्त्राणि समृद्धवेगाः
॥११-२९॥
लेलिह्यसे ग्रसमानः समन्ताल्-
 लोकान्समग्रान्वदनैर्ज्वलद्भिः।
तेजोभिरापूर्य जगत्समग्रं
        भासस्तवोग्राः प्रतपन्ति विष्णो
॥११-३०॥


आख्याहि मे को भवानुग्ररूपो
        नमोऽस्तु ते देववर प्रसीद।
विज्ञातुमिच्छामि भवन्तमाद्यं
        न हि प्रजानामि तव प्रवृत्तिम्
 ॥११-३१॥

श्रीभगवानुवाच।
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो
        लोकान्समाहर्तुमिह प्रवृत्तः।
ऋतेऽपि त्वां न भविष्यन्ति सर्वे
        येऽवस्थिताः प्रत्यनीकेषु योधाः
॥११-३२॥
तस्मात्त्वमुत्तिष्ठ यशो लभस्व
         जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम्।
मयैवैते निहताः पूर्वमेव
 निमित्तमात्रं भव सव्यसाचिन्
॥११-३३॥
द्रोणं च भीष्मं च जयद्रथं च
        कर्णं तथान्यानपि योधवीरान्।
मया हतांस्त्वं जहि मा व्यथिष्ठा
 युध्यस्व जेतासि रणे सपत्नान्
॥११-३४॥

सञ्जय उवाच।
एतच्छ्रुत्वा वचनं केशवस्य
        कृताञ्जलिर्वेपमानः किरीटी।
नमस्कृत्वा भूय एवाह कृष्णं
 सगद्गदं भीतभीतः प्रणम्य ॥
११-३५॥

अर्जुन उवाच।
स्थाने हृषीकेश तव प्रकीर्त्या
        जगत्प्रहृष्यत्यनुरज्यते च।
रक्षांसि भीतानि दिशो द्रवन्ति
        सर्वे नमस्यन्ति च सिद्धसङ्घाः
 ॥११-३६॥
कस्माच्च ते न नमेरन्महात्मन्
 गरीयसे ब्रह्मणोऽप्यादिकर्त्रे।
अनन्त देवेश जगन्निवास
 त्वमक्षरं सदसत्तत्परं यत् ॥
११-३७॥
त्वमादिदेवः पुरुषः पुराणस्-
        त्वमस्य विश्वस्य परं निधानम्।
वेत्तासि वेद्यं च परं च धाम
        त्वया ततं विश्वमनन्तरूप
 ॥११-३८॥
वायुर्यमोऽग्निर्वरुणः शशाङ्कः
        प्रजापतिस्त्वं प्रपितामहश्च।
नमो नमस्तेऽस्तु सहस्रकृत्वः
 पुनश्च भूयोऽपि नमो नमस्ते
॥११-३९॥
नमः पुरस्तादथ पृष्ठतस्ते
 नमोऽस्तु ते सर्वत एव सर्व।
अनन्तवीर्यामितविक्रमस्त्वं
 सर्वं समाप्नोषि ततोऽसि सर्वः
 ॥११-४०॥


सखेति मत्वा प्रसभं यदुक्तं
 हे कृष्ण हे यादव हे सखेति।
अजानता महिमानं तवेदं
        मया प्रमादात्प्रणयेन वापि ॥
११-४१॥
यच्चावहासार्थमसत्कृतोऽसि
 विहारशय्यासनभोजनेषु।
एकोऽथवाप्यच्युत तत्समक्षं
 तत्क्षामये त्वामहमप्रमेयम्
॥११-४२॥
पितासि लोकस्य चराचरस्य
 त्वमस्य पूज्यश्च गुरुर्गरीयान्।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
        लोकत्रयेऽप्यप्रतिमप्रभाव
॥११-४३॥
तस्मात्प्रणम्य प्रणिधाय कायं
 प्रसादये त्वामहमीशमीड्यम्।
पितेव पुत्रस्य सखेव सख्युः
        प्रियः प्रियायार्हसि देव सोढुम्
 ॥११-४४॥
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा
        भयेन च प्रव्यथितं मनो मे।
तदेव मे दर्शय देव रूपं
        प्रसीद देवेश जगन्निवास
॥११-४५॥


किरीटिनं गदिनं चक्रहस्तं
        इच्छामि त्वां द्रष्टुमहं तथैव।
तेनैव रूपेण चतुर्भुजेन
        सहस्रबाहो भव विश्वमूर्ते ॥
११-४६॥

श्रीभगवानुवाच।
मया प्रसन्नेन तवार्जुनेदं
        रूपं परं दर्शितमात्मयोगात्।
तेजोमयं विश्वमनन्तमाद्यं
        यन्मे त्वदन्येन न दृष्टपूर्वम्
 ॥११-४७॥
न वेदयज्ञाध्ययनैर्न दानैर्-
        न च क्रियाभिर्न तपोभिरुग्रैः।
एवंरूपः शक्य अहं नृलोके
        द्रष्टुं त्वदन्येन कुरुप्रवीर
 ॥११-४८॥
मा ते व्यथा मा च विमूढभावो
 दृष्ट्वा रूपं घोरमीदृङ्ममेदम्।
व्यपेतभीः प्रीतमनाः पुनस्त्वं
        तदेव मे रूपमिदं प्रपश्य
॥११-४९॥

सञ्जय उवाच।
इत्यर्जुनं वासुदेवस्तथोक्त्वा
        स्वकं रूपं दर्शयामास भूयः।
आश्वासयामास च भीतमेनं
        भूत्वा पुनः सौम्यवपुर्महात्मा
॥११-५०॥

अर्जुन उवाच।
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः
॥११-५१॥

श्रीभगवानुवाच।
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः
 ॥११-५२॥
नाहं वेदैर्न तपसा न दानेन न चेज्यया।
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा
॥११-५३॥
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप
 ॥११-५४॥
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव
॥११-५५॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो
नामैकादशोऽध्यायः ॥११॥

वारकरी-रोजनिशी-युट्युब-चॅनल

भगवद्गीता संहिता व्हिडीओ

भगवद्गीता १८ अध्याय

1 ✔👇हे इतरांही शेअर करा 👇

Leave a Reply

Your email address will not be published. Required fields are marked *