Category पंचदशी-सर्व-परिच्छेद

सार्थ पंचदशी मराठी द्वादशः परिच्छेदः- ब्रह्मानन्दे आत्मानन्दः श्लोक ६१ ते ८०

सार्थ पंचदशी सूची एवं स्थिते विवादोऽत्र प्रतिबुद्धविमूढयोः ।श्रुत्योदाहारि तत्रात्मा प्रेयानित्येव निर्णयः ॥ ६१ ॥साक्ष्येव दृश्यादन्यस्मात्प्रेयानित्याह तत्त्ववित् ।प्रेयान्पुत्रादिरेवेमं भोक्तुं साक्षीति मूढधीः ॥ ६२ ॥आत्मनोऽन्यं प्रियं ब्रूते शिष्यश्च प्रतिवाद्यपि ।तस्योत्तरं वचोबोधशापौ कुर्यात्तयोः क्रमात् ॥ ६३ ॥ प्रियं त्वां रोत्स्यतीत्येवमुत्तरं वक्ति तत्त्ववित् ।स्वोक्तप्रियस्य…

सार्थ पंचदशी मराठी द्वादशः परिच्छेदः- ब्रह्मानन्दे आत्मानन्दः श्लोक ४१ ते ६०

सार्थ पंचदशी सूची भेदोऽस्ति पञ्चकोषेषु साक्षिणो न तु भात्यसौ ।मिथ्यात्मताऽतः कोषाणां स्थाणोर्चौरात्मता यथा ॥ ४१ ॥न भाति भेदो नाप्यस्ति साक्षिणोऽप्रतियोगिनः ।सर्वान्तरत्वात् तस्यैव मुख्यमात्मत्वमिष्यते ॥ ४२ ॥ सत्येवं व्यवहारेषु येषु यस्यात्मतोचिता ।तेषु तस्यैव शेषित्वं सर्वस्यान्यस्य शेषता ॥ ४३ ॥मुमूर्षोर्गृहरक्षादौ गौणात्मैवोपयुज्यते ।न…

सार्थ पंचदशी मराठी द्वादशः परिच्छेदः- ब्रह्मानन्दे आत्मानन्दः श्लोक २१ ते ४०

सार्थ पंचदशी सूची अथ केयं भवेत्प्रीतिः श्रूयते या निजात्मनि ।रागो वध्वादि विषये श्रद्धा यागादि कर्मणि ॥ २१ ॥ भक्तिः स्याद्गुरुदेवादाविच्छा त्वप्राप्तवस्तुनि ।तर्ह्यस्तु सात्विकी वृत्तिः सुखमात्रानुवर्तिनी ॥ २२ ॥ प्राप्ते नष्टेऽपि सद्‌भावादिच्छतो व्यतिरिच्यते ।सुखसाधनतोपाधेरन्नपानादयः प्रियाः ॥ २३ ॥ आत्मानुकुल्यादन्नादिसमश्चेदमुनात्र कः ।अनुकूलयितव्यः…

सार्थ पंचदशी मराठी द्वादशः परिच्छेदः- ब्रह्मानन्दे आत्मानन्दः श्लोक १ ते २०

सार्थ पंचदशी सूची नन्वेवं वासनानन्दाद्‌ब्रह्मानन्दादपीतरम् ।वेत्तु योगी निजानन्दं मूढस्यात्रास्ति का गतिः ॥ १ ॥धर्माधर्मवशादेष जायतां म्रियतामपि ।पुनः पुनर्देहलक्षैः किं नो दाक्षिण्यतो वद ॥ २ ॥अस्ति वोऽनुजिघृक्षुवाद्दाक्षिण्येन प्रयोजनम् ।तर्हि ब्रूहि स मूढः किं जिज्ञासुर्वा पराङ्मुखः ॥ ३ ॥ उपास्तिं कर्म वा…

सार्थ पंचदशी मराठी एकादशः परिच्छेदः- ब्रह्मानन्दे योगानंदः श्लोक १२१ ते १३४

सार्थ पंचदशी सूची तादृक् पुमानुदासीनकालेऽप्यानन्दवासनाम् ।उपेक्ष्य मुख्यमानन्दं भावयत्येव तत्परः ॥ १२१ ॥परव्यसनिनी नारी व्यग्रापि गृहकर्मणि ।तदेवास्वादयत्यन्तः परसङ्गरसायनम् ॥ १२२ ॥एवं तत्त्वे परे शुद्धे धीरो विश्रान्तिमागतः ।तदेवास्वादयत्यन्तर्बहिर्व्यवहारन्नपि ॥ १२३ ॥धीरत्वमक्षप्राबल्येऽप्यानन्दास्वादवाञ्छया ।तिरस्कृत्याखिलाक्षाणि तच्चिन्तायां प्रवर्तनम् ॥ १२४ ॥भारवाही शिरोभारं मुक्त्वास्ते विश्रमं गतः ।संसारव्यापृतित्यागे…

सार्थ पंचदशी मराठी एकादशः परिच्छेदः- ब्रह्मानन्दे योगानंदः श्लोक १०१ ते १२०

सार्थ पंचदशी सूची शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया ।आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥ १०१ ॥यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ १०२ ॥प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ १०३ ॥यत्रोपरमते चित्तं निरुद्धं योगसेवया ।यत्र चैवात्मनात्मानं पश्यन्नात्मनि…

सार्थ पंचदशी मराठी एकादशः परिच्छेदः- ब्रह्मानन्दे योगानंदः श्लोक ८१ ते १००

सार्थ पंचदशी सूची साङ्ख्यमेवैष जानाति न तु वेदानशेषतः ।यदि तर्हि त्वमप्येवं नाशेषं ब्रह्म वेत्सि हि ॥ ८१ ॥ अखण्डैकरसानन्दे मायातत्कार्यवर्जिते ।अशेषत्वसशेषत्ववार्तावसर एव कः ॥ ८२ ॥शब्दानेव पठस्याहो तेषामर्थं च पश्यसि ।शब्दपाठेऽर्थबोधस्ते सम्पाद्यत्वेन शिष्यते ॥ ८३ ॥अर्थे व्याकरणाद्बुद्धे साक्षात्कारोऽवशिष्यते ।स्यात्कृतार्थत्वधीर्यावत्तावद्गुरुमुपास्व भोः…

सार्थ पंचदशी मराठी एकादशः परिच्छेदः- ब्रह्मानन्दे योगानंदः श्लोक ६१ ते ८०

सार्थ पंचदशी सूची ब्रह्मविज्ञानमानन्दमिति वाजसनेयिनः ।पठन्त्यतः स्वप्रकाशं सुखं ब्रह्मैव नेतरत् ॥ ६१ ॥यदज्ञानं तत्र लीनौ तौ विज्ञानमनोमयौ ।तयोर्हि विलयावस्था निद्राज्ञानं च सैव हि ॥ ६२ ॥विलीनघृतवत्पश्चात्स्याद्विज्ञानमयो घनः ।विलीनावस्थ आनन्दमयशब्देन कथ्यते ॥ ६३ ॥सुप्तिपूर्वक्षणे बुद्धिवृत्तिर्या सुखबिम्बिता ।सैव तद्‌बिम्बसहिता लीनानन्दमयस्ततः ॥ ६४…

सार्थ पंचदशी मराठी एकादशः परिच्छेदः- ब्रह्मानन्दे योगानंदः श्लोक ४१ ते ६०

सार्थ पंचदशी सूची तर्हि साधनजन्यत्वात्सुखं वैषयिकं भवेत् ।भवत्येवात्र निद्रायाः पूर्वं शय्यासनादिजम् ॥ ४१ ॥ निद्रायां तु सुखं यत्तज्जन्यते केन हेतुना ।सुखाभिमुखधीरादौ पश्चान्मज्जेत्परे सुखे ॥ ४२ ॥जाग्रद्‌व्यापृतिभिः श्रान्तो विश्रम्याथ विरोधिनि ।अपनीते स्वस्थचितोऽनुभवेद्विषये सुखम् ॥ ४३ ॥आत्माभिमुखधीवृत्तौ स्वानन्दः प्रतिबिम्बति ।अनुभूयैनमत्रापि त्रिपुट्या श्रान्तिमाप्नुयात्…

सार्थ पंचदशी मराठी एकादशः परिच्छेदः- ब्रह्मानन्दे योगानंदः श्लोक २१ ते ४०

सार्थ पंचदशी सूची सुखं वैषयिकं शोकसहस्रेणावृतत्वतः ।दुःखमेवेति मत्वाह नाल्पेऽस्ति सुखमित्यसौ ॥ २१ ॥ननु द्वैते सुखं माभूदद्वैतेऽप्यस्ति नो सुखम् ।अस्ति चेदुपलभ्येत तथा च त्रिपुटी भवेत् ॥ २२ ॥ मास्त्वद्वैते सुखं किन्तु सुखमद्वैतमेव हि ।किं मानमिति चेन्नास्ति मानाकाङ्क्षा स्वयंप्रभे ॥ २३ ॥स्वप्रभत्वे…