भगवद्गीता व्हिडिओ संहिता १ ला अध्याय
DSGDHSGSDG ॥ॐ श्री परमात्मने नमः ॥॥अथ श्रीमद्भगवद्गीता ॥॥अथ प्रथमोऽध्यायः ॥॥अर्जुनविषादयोगः ॥ धृतराष्ट्र उवाच।धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥१-१॥ सञ्जय उवाच।दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्॥१-२॥ पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्।व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता॥१-३॥ अत्र शूरा महेष्वासा भीमार्जुनसमा युधि।युधानो…
