श्री शंकरस्य आरतिः
(मूल मराठी- लवथवती विक्राळा)
जय देव जय देव शिवशंकर जय हे |
त्वाम् कर्पूरसुगौरम् वयम् आर्ताः स्तुमहे || धृ. ||
|| जय देव जय देव ||
लम्बन्ते विकराला ब्रह्माण्डे मालाः
विषेण कण्ठः श्यामो विलोचनात् ज्वालाः |
जह्नोर्लावण्ययुता शिरसि धृता बाला
जलप्रवाहो मन्दम् वहति यति विमलः || १||
|| जय देव जय देव ||
मुग्धो विशालनयनः कर्पूरसुगौरः
अर्धांगिनी च गिरिजा गलेऽस्ति सुमहारः |
उद्धूलनं विभूतेर्नीलः शितिकण्ठः
एवम् विलसति शंकर एष उमादयितः || २||
|| जय देव जय देव ||
कृतं सुरासुरवृन्दैरम्भोधेर्मथनम्
हालाहलम् च सहसा तस्माद् उद्भूतम् |
सहसा त्वम् च सलीलम् कृतवान् विषपानम्
ततो नीलकण्ठ इति त्वन्नाम प्रथितम् || ३||
|| जय देव जय देव ||
व्याघ्राम्बरः फणिधरः सुन्दर- मदनारिः
पंचाननो मनोहर ऋषिजन- सुखकारी |
शतकोटी- जपबीजे रामनाम्नि रमते
रघुकुलतिलको रामो रामदास- चित्ते || ४||
|| जय देव जय देव ||
Previous Post
भागवताची आरती श्री भागवत भगवान कि है आरती
Next Post
दुर्गे दुर्घट भारी तुजवीण संसारी दुर्गा देवी आरती संस्कृत आरती : धनंजय महाराज मोरे

Good