लवथवती विक्राळा ब्रम्हांडी माळा शंकराची आरती संस्कृत आरती 1 ✔👇हे इतरांही शेअर करा 👇 श्री शंकरस्य आरतिः (मूल मराठी- लवथवती विक्राळा) जय देव जय देव शिवशंकर जय हे | त्वाम् कर्पूरसुगौरम् वयम् आर्ताः स्तुमहे || धृ. || || जय देव जय देव || लम्बन्ते विकराला ब्रह्माण्डे मालाः विषेण कण्ठः श्यामो विलोचनात् ज्वालाः | जह्नोर्लावण्ययुता शिरसि धृता बाला जलप्रवाहो मन्दम् वहति यति विमलः || १|| || जय देव जय देव || मुग्धो विशालनयनः कर्पूरसुगौरः अर्धांगिनी च गिरिजा गलेऽस्ति सुमहारः | उद्धूलनं विभूतेर्नीलः शितिकण्ठः एवम् विलसति शंकर एष उमादयितः || २|| || जय देव जय देव || कृतं सुरासुरवृन्दैरम्भोधेर्मथनम् हालाहलम् च सहसा तस्माद् उद्भूतम् | सहसा त्वम् च सलीलम् कृतवान् विषपानम् ततो नीलकण्ठ इति त्वन्नाम प्रथितम् || ३|| || जय देव जय देव || व्याघ्राम्बरः फणिधरः सुन्दर- मदनारिः पंचाननो मनोहर ऋषिजन- सुखकारी | शतकोटी- जपबीजे रामनाम्नि रमते रघुकुलतिलको रामो रामदास- चित्ते || ४|| || जय देव जय देव || ✔ही माहिती ईतरांनाही पाठवा⬇WhatsAppTweetTelegramEmailPrint Related1 1 ✔👇हे इतरांही शेअर करा 👇 Previous Post भागवताची आरती श्री भागवत भगवान कि है आरती Next Post दुर्गे दुर्घट भारी तुजवीण संसारी दुर्गा देवी आरती संस्कृत आरती : धनंजय महाराज मोरे
Good