वारकरी रोजनिशी

वारकरी रोजनिशी

संतमांगल्य | संतवाणी | संतसाहित्य | वारकरी संस्कृती

⌕☰
मुख्यपृष्ठसंतग्रंथअभंगशोधऑडिओ
← सर्व अभंग← मागील अभंगपुढील अभंग →
← उजवीकडे स्वाईप : मागील अभंग   |   डावीकडे स्वाईप : पुढील अभंग →
वारकरी रोजनिशी › 1. भजनी मालिका 2026 › 1. वारकरी भजनी मालिका › 5. सर्व आरती संग्रह › 11. संस्कृत आरती संग्रह

 10.

🙏 1. भजनी मालिका 2026 · ABH-090253 · अभंग क्र. १

 10.
॥ छत्रपतेः श्रीशिवराजस्य आरतिः ॥

जय जय जय शिवराज पुनस्ते जयघोषो भवतात् ।
जयघोषेण समम् राष्ट्रेऽस्मिन् चैतन्यम् स्फुरतात् ॥धृ॥

॥ जय जय जय शिवराज ॥
महंमदीयैः समदैर्भारत- भूरियम् आक्रान्ता
आतंकात् त्रातुम् नाऽदृश्यत् हिन्दूनाम त्राता ।
तदा गृहीता त्वया `भवानी'स्वकरे खड्गलता
यवनमर्दनम् कृतम् जनेभ्यो दत्ता निर्भयता ॥१॥

अस्माकम् पूजास्थानानि श्रेष्ठ- मन्दिराणि
मूर्तिभंजकैः क्रूरैर्यवनैः सहसोद्ध्वस्तानि ।
समुच्छ्रित्य खलु `मावळ'- वीरैः स्वखड्ग- पत्राणि
तवाऽज्ञया निजदेशरिपूणाम् शिरांसि लूनानि ॥२॥

खड्गम् ते निष्कोषितम् आसीत् आर्तत्राणार्थम्
स्त्री- गो- विप्राणाम् अवनार्थम् घोरम् व्रतम् धृतम् ।
नित्यम् अश्वम् आरुह्य यतितवान् स्वराज्यनिर्मितये
परिणत आसीत् तव संकल्पो भव्यराष्ट्रविजये ॥३॥

प्रतिपच्चन्द्रसमा वर्धिष्णुः सर्वविश्वमान्या
भद्रकारिणी मुद्रा तव नृप शहाजि- सुत धन्या ।
कर्तव्य- प्रेरणाम् च ददती दिशतु च नः सुपथम्
शिवगुणकथने वाग् अस्माकम् रमताम् अनवरतम् ॥४॥

॥ भारतमाता विजयताम् ॥ श्रीशिवराजो विजयताम् ॥
॥ अस्माकम् पौरुषम् विजयताम् ॥ शिवसंकल्पो विजयताम् ॥

📖 वाचा
वारकरी रोजनिशी
संतवाणी • संतसाहित्य • अभंग • ग्रंथ

भक्ती • ज्ञान • वारकरी संस्कृती
⌂मुख्यपृष्ठ⌕शोध 📚ग्रंथ📿अभंग