3.
3.
॥ श्री शंकरस्य आरतिः ॥
(मूल मराठी- लवथवती विक्राळा)
जय देव जय देव शिवशंकर जय हे ।
त्वाम् कर्पूरसुगौरम् वयम् आर्ताः स्तुमहे ॥धृ॥
॥ जय देव जय देव ॥
लम्बन्ते विकराला ब्रह्माण्डे मालाः
विषेण कण्ठः श्यामो विलोचनात् ज्वालाः ।
जह्नोर्लावण्ययुता शिरसि धृता बाला
जलप्रवाहो मन्दम् वहति यति विमलः ॥ १॥
॥ जय देव जय देव ॥
मुग्धो विशालनयनः कर्पूरसुगौरः
अर्धांगिनी च गिरिजा गलेऽस्ति सुमहारः ।
उद्धूलनं विभूतेर्नीलः शितिकण्ठः
एवम् विलसति शंकर एष उमादयितः ॥ २॥
॥ जय देव जय देव ॥
कृतं सुरासुरवृन्दैरम्भोधेर्मथनम्
हालाहलम् च सहसा तस्माद् उद्भूतम् ।
सहसा त्वम् च सलीलम् कृतवान् विषपानम्
ततो नीलकण्ठ इति त्वन्नाम प्रथितम् ॥ ३॥
॥ जय देव जय देव ॥
व्याघ्राम्बरः फणिधरः सुन्दर- मदनारिः
पंचाननो मनोहर ऋषिजन- सुखकारी ।
शतकोटी- जपबीजे रामनाम्नि रमते
रघुकुलतिलको रामो रामदास- चित्ते ॥ ४॥
॥ जय देव जय देव ॥
॥ ॐ नमः शिवाय ॥
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ॥
