12.
12.
श्री- अक्कलकोट- स्वामिनः आरतिः ॥ २
जय देव, जय देव जय नाथ, स्वामिन् ।
त्रिभुवननाथ अगम्या लीला ते स्वामिन् ॥धृ॥
जय देव जय देव ॥
तव दर्शनात् सुदूरम् प्रयान्ति पापानि
स्पर्शात् तथैव विलयम् बत भवदुरितानि ।
शिरश्चरणयोः नत्वा स्पष्टम् ज्ञातव्यम्
इतःपरम् न भवेत् किल वैकुण्ठे सौख्यम् ॥
जय देव जय देव ॥१॥
सुगन्धकेशरतिलकः तथा शिरस्त्रधरः
कुण्डलशोभितकर्णो वक्षःस्थितहारः ।
त्वत्पदशरेणभ्यः खलु कालो भयभीतः
सेवामहोत्सवम् तव कुर्वन्ति च भक्ताः ॥
जय देव जय देव ॥२॥
मानवशरीरधारी दृष्टोऽस्माभिः त्वम्
कृतवान् अक्कलकोटे यतिवेषो वासम् ।
अवतारमगृह्णीथाः पूर्णब्रह्म त्वम्
अवगच्छति परम् अज्ञो भावम् विपरीतम् ॥
जय देव जय देव ॥३॥
त्वम् निर्गुणोऽविकारो व्याप्नोषि हि विश्वम्
व्याप्य स्थिरचरम् एकः स्वामिन् स्थितवाँस्त्वम् ।
बहुमायारूपाणि त्वम् धरसे नित्यम्
त्वद्गुणवर्णनकथने विधिशब्दैः श्रान्तम् ॥
जय देव जय देव ॥४॥
अनन्त- जन्मसु राशिः संचितसुकृतानाम्
तेन हि लाभो जातो मे गुरुचरणानाम् ।
स्वर्णस्तबके निहितम् पूर्णामृतपात्रम्
पश्य कृपादृष्ट्या माम् शरणागतदीनम् ॥
जय देव जय देव ॥५॥
