वारकरी रोजनिशी

वारकरी रोजनिशी

संतमांगल्य | संतवाणी | संतसाहित्य | वारकरी संस्कृती

⌕☰
मुख्यपृष्ठसंतग्रंथअभंगशोधऑडिओ
← सर्व अभंग← मागील अभंगपुढील अभंग →
← उजवीकडे स्वाईप : मागील अभंग   |   डावीकडे स्वाईप : पुढील अभंग →
वारकरी रोजनिशी › 1. भजनी मालिका 2026 › 1. वारकरी भजनी मालिका › 5. सर्व आरती संग्रह › 11. संस्कृत आरती संग्रह

॥ श्री विठ्ठलस्य आरत

🙏 1. भजनी मालिका 2026 · ABH-090263 · अभंग क्र. ५

5.
॥ श्री विठ्ठलस्य आरतिः ॥
जय देव जय देव, पाण्डुरंग जय हे ।
रुक्मिण्या वल्लभ हे, श्रीराहीवल्लभ हे,
प्रसीद मत्प्रिय हे ॥ जय देव जय देव ॥धृ॥
तिष्ठत्यष्टाविंशति युगानीष्टिकायाम्
रुक्मिणी च वामांगे, पश्यत बहुशोभाम् ।
परब्रह्म पुण्डलिकम् द्रष्टम् स्वयम् एति
वहति पदाभ्याम् भीमा जगत् समुद्धरति ॥ १॥
॥ जय देव जय देव ॥

तुलसीमाला- कण्ठम् कटि- विन्यस्त- करम्
धृतपीताम्बर- वसनम् कस्तूरिललाटम् ।
मिलितुम् सुरवरदेवा आयान्त्यनुदिवसम्
गरुडो हनुमान् पुरतः तिष्ठन्तौ नित्यम् ॥ २॥
॥ जय देव जय देव ॥

धन्यो वेणुरवोऽसौ अनुक्षेत्रपालः
सुवर्णकमलानि कण्ठे वनमाला ।
राही च रुक्मिणी सा सकला अपि राज्ञ्यः
श्यामल- विठ्ठलराजम् नीराजयन्ति ताः ॥ ३॥
॥ जय देव जय देव ॥

आरतीश्च `कुर्वण्डीः'दर्शयितुम् प्राप्ताः
जले चन्द्रभागायाः मुञ्चन्ते ननु ताः ।
नृत्यन्ति ध्वजहस्तास्ते वैष्णवभक्ताः
पण्ढरि- कीर्ति- स्तवने रसनाऽपि श्रान्ता ॥ ४॥
॥ जय देव जय देव ॥

आषाढी- कार्तिक्योर्मिलन्ति भक्तजनाः
जले चन्द्रभागायाः स्नानम् कुर्वाणाः ।
दर्शन- कटाक्षमात्रम् मोक्षम् आप्नुवन्ति
भावेन नामदेवः केशवम् अर्चयति ॥ ५॥
॥ जय देव जय देव ॥

📖 वाचा
वारकरी रोजनिशी
संतवाणी • संतसाहित्य • अभंग • ग्रंथ

भक्ती • ज्ञान • वारकरी संस्कृती
⌂मुख्यपृष्ठ⌕शोध 📚ग्रंथ📿अभंग