॥ श्रीगजाननस्य आरतिः
2.
॥ श्रीगजाननस्य आरतिः ॥
जय जय हे गणराज, विद्यासुखदातः ।
त्वद्दर्शनधन्योऽहम् त्वत्पद- रत- चित्तः ॥
॥जय देव जय देव ॥धृ.॥
सिन्दूर- रक्तदेहम् सुभगम् गजवदनम्
विलसत्- तुन्दिलकायम् गौरीहर- तनयम् ।
धृत- गुडलड्डुकहस्तम् देवेश्वरनाथम्
अवर्ण्य-गुणमहिमानम् प्राप्तोऽहम् शरणम् ॥१॥
अणिमादि- सिद्धयोऽष्टौ दास्यो विघ्नारेः
समर्थ- विघ्नहरस्य श्रीमंगलमूर्तेः ।
कोटि- दिवाकर-सदृशम् तव तेजः प्रखरम्
गण्डस्थल-मदशीर्षम् विहरत् शशिभालम् ॥२॥
भावेन कोऽपि भक्त्या त्वां गच्छतु शरणम्
सन्तति- सम्पत्- प्रमुखम् विन्देत् निजमिष्टम् ।
एवम् महाराज त्वम् रोचसेऽति मह्यम्
गोस्वामिनः सुतस्त्वाम् गायति दिनरात्रम् ॥३॥
॥ जय जय गणराज ॥
अभीप्सितार्थसिद्ध्यर्थम् पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥
