आराधना
आराधना
॥ श्री स्वामी दिव्यानंदाय नमः ॥
चैतन्योदय गुरुकुल आश्रम, जिंतूर.
------------------------------
आराधना
------------------------------
❈ आशीर्वाद ❈
अनंतश्री विभूषित श्रोत्रिय ब्रह्मनिष्ठ कृपाळु सद्गुरु
स्वामी दिव्यानंदपुरीजी महाराज
❈ प्रेरणा ❈
श्री स्वामी श्री महेशानंदपुरीजी महाराज जिंतूर, परभणी
📞 9421389293
------------------------------
मंगलाचरण
1.
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥१॥
ॐ शान्तिः शान्तिः शान्तिः॥
योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां
सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना ।
अन्यांश्च हस्तचरणश्रवणत्वगादीन्
प्राणान्नमो भगवते पुरुषाय तुभ्यम् ॥२॥
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावतीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥३॥
विनायकं गुरुं नौमि साखरेनाम विश्रुतम् ।
येषां चरणसान्निध्यात् जीवा मुक्ता भवन्ति हि ॥
साखरेवंशविख्यातं ज्ञानदानपरायणम् ।
विनायकं गुरुं वन्दे भवबन्धविमुक्तये ॥४॥
श्रीरंगनाथं गुरुराज वर्यम्
मुमुक्षूणां ज्ञानदानैकदक्षम् ।
प्रभावतीक्षेत्रनिवासिनं तं
नमामि वेदान्तविदां वरिष्ठम् ॥५॥
