विठ्ठलस्मरणम्
विठ्ठलस्मरणम्
श्लोक १:
घननील-सुकोमल-कान्ततनु कटिशोभितदक्षिणवामकरम् ।
भुवि-राजितसुंदरपादमजं कुरु विठ्ठल विठ्ठल रे स्मरणम् ॥१ ॥
श्लोक २:
अरुणोदयकान्तिनिभे वदने स्वधरे मधुरे ललितं कलितम् ।
मृदुहास्यमिदं सुखदं विमलं कुरु विठ्ठल विठ्ठल रे स्मरणम् ॥२ ॥
श्लोक ३:
शरदम्बरमण्डितचन्द्रनिभं मुनिमानसमानसमोदविधुम् ।
निजलोकहिताय चलन्नयनं कुरु विठ्ठल विठ्ठल रे स्मरणम् ॥३ ॥
श्लोक ४:
मकराकृतिकुण्डलजा सुषमा सुविभाती कपोलतले प्रतिमा ।
हृदये विमले विधिना वरण कुरु विठ्ठल विठ्ठल रे स्मरणम् ॥४ ॥
श्लोक ५:
त्वयि शस्त्रबलं न च शास्त्रबलं नच वित्तबलं न च धर्म बलम् ।
यदि काङ्क्षसि संसृतितस्तरणं कुरु विठ्ठल विठ्ठल रे स्मरणम् ॥५ ॥
श्लोक ६:
जननी जनकं त्यज रे ललनां तनयं तनयां तनुसुन्दरताम् ।
व्यसनेषु न कोपि सहायकं कुरु विठ्ठल विठ्ठल रे स्मरणम् ॥६ ॥
श्लोक ७:
मनसा मनने वचसा वचने जननं न पुनर्जनीजठरे ।
न हि जन्म कुतो मरणं शरणं कुरु विठ्ठल विठ्ठल रे स्मरणम् ॥७ ॥
श्लोक ८:
शुकसारसकोकिलकेकिगणैः रतिशोभितमङ्कितगाङ्गकणैः ।
गिरिराजनिकुंजमकारि गृहं कुरु विठ्ठल विठ्ठल रे स्मरणम् ॥८ ॥
श्लोक ९:
ऋषयो मुनयः प्रथमाश्रमिणो विचरन्ति मुदा सुविचार्य हृदा ।
ऋषिकेशमवाप्य ददात्यभयं कुरु विठ्ठल विठ्ठल रे स्मरणम् ॥९ ॥
॥इति श्रीदिव्यानन्दस्वामीविरचितं स्तोत्रमिदं संपूर्णम् ॥
(अर्थ: श्री दिव्यांनद स्वामी यांनी रचलेले हे विठ्ठलस्मरणम् स्तोत्र येथे संपूर्ण झाले.)
