॥ श्रीरामस्य आरतिः ॥
8.
॥ श्रीरामस्य आरतिः ॥
निजबोध श्रीराम त्वम् जय जय देव । जय जय जय देव ।
परमार्थेनाऽर्तिक्यम् सद्भावेनाऽर्तिक्यम् । पूरितकाम तव ।
जय देव जय देव । जय जय हे देव ॥धृ॥
सेतुम् बबन्ध लब्ध्वा बृहत्- शिलाखण्डान्
लिंगदेहलंकापुरम् उद्ध्वस्तम् कृतवान् ।
कामक्रोधादीन् तान् निषूदयन् असुरान्
`देहोऽहम्'- मतिभावम् दशवदनम् हतवान् ॥ १॥
॥ जय देव जय देव ॥
प्रथमम् हनुमान् सीताम् अन्वष्टुम् गतवान्
लंकादहनम् कृतवान् अक्षम् मारितवान् ।
जम्बुमालिनम् हतवान् भुवि आस्फालितवान्
आनन्दस्य सुवार्ताम् गृह्णन् आगतवान् ॥ २॥
॥ जय देव जय देव ॥
स्वबलेन च स्वशक्तिः विमोचिता सीता
अत आगच्छद् अयोध्या- नगरम् रघुनाथः ।
अवहत् विरक्तिपूरे सानन्दम् भरतः
आरतिहस्ताऽऽगच्छत् कौसल्या माता ॥ ३॥
॥ जय देव जय देव ॥
सानुहुतध्वनयः प्लवगा गर्जन्ति
अष्टादश- पद्ममिता बुभुः स्म कुर्वन्ति ।
दशरथतनयोऽयोध्याम् एष समायातः
आनन्दश्च नगर्याम् अतीव संजातः ॥ ४॥
॥ जय देव जय देव ॥
सिंहासने सलीलम् रघुवीरो राजा
`तत्त्वम्'- भावस्तस्मै उपचारः पूजा ।
सहजानाम् आर्तिक्यम् वाद्य- निनादोऽयम्
माधवदास- स्वामिन् स्मर, मा विस्मर तम् ॥ ५॥
॥ जय देव जय देव ॥
॥ श्रीराम रघुवीर ॥ जय जय राम रघुवीर ॥
