वारकरी रोजनिशी

वारकरी रोजनिशी

संतमांगल्य | संतवाणी | संतसाहित्य | वारकरी संस्कृती

⌕☰
मुख्यपृष्ठसंतग्रंथअभंगशोधऑडिओ
← सर्व अभंग← मागील अभंगपुढील अभंग →
← उजवीकडे स्वाईप : मागील अभंग   |   डावीकडे स्वाईप : पुढील अभंग →
वारकरी रोजनिशी › 1. भजनी मालिका 2026 › 1. वारकरी भजनी मालिका › 5. सर्व आरती संग्रह › 11. संस्कृत आरती संग्रह

मातृभूमेः आरतिः ॥

🙏 1. भजनी मालिका 2026 · ABH-090257 · अभंग क्र. १३

13.
मातृभूमेः आरतिः ॥
जयतु मातृभूमिः मम पुण्यम् राष्ट्रम् ।
तत्- सेवायाम् रमताम् सदैव मम चित्तम् ॥धृ॥

॥ जयतु राष्ट्रम् ॥ पुण्य राष्ट्रम् ॥
उदितो यत्र प्रथमम् ज्ञानरविः साक्षात्
सर्वज्ञः परमात्मा श्रुतिरूपम् अगृह्णात् ।
अन्वभवन्तो धन्या ऋषयो ज्ञानार्कम्
पूता सिन्धुः दृष्ट्वा ज्ञानरवेरुदयम् ॥१॥

अधर्म- परिहारार्थम्, धर्म- रक्षणार्थम्
साधूनाम् अवनार्थम्, खलनिर्दलनार्थम् ।
प्रेषयति स्वान् दूतान् प्रभुरन्यत् स्थानम्
अत्र स्वयम्, आगच्छति भगवान् सानन्दम् ॥ २॥

देव- निवासात् नूनम् पुण्या भूमिरियम्
धन्यो योऽस्या कुरुते स्वशिरसि शुभरजसम् ।
प्रभोऽस्तु भूम्याम् अस्याम् सुखम् पुनर्जननम्
वदने विलसतु सततम् भारत- गुणगानम् ॥ ३॥

॥ जयतु जयतु भारतदेशः ॥ स एव मे श्रीपरमेशः ॥
॥ भारतमाता विजयताम् ॥ विजयताम् भारतमाता ॥

📖 वाचा
वारकरी रोजनिशी
संतवाणी • संतसाहित्य • अभंग • ग्रंथ

भक्ती • ज्ञान • वारकरी संस्कृती
⌂मुख्यपृष्ठ⌕शोध 📚ग्रंथ📿अभंग