वैदिक शांतीपाठ
वैदिक शांतीपाठ
2.
ॐ शं नो मित्रः शं वरुणः ।
शं नो भवत्वर्यमा ।
शं न इन्द्रो बृहस्पतिः ।
शं नो विष्णुरुरुक्रमः ॥१॥
नमो ब्रह्मणे । नमस्ते वायो ।
त्वमेव प्रत्यक्षं ब्रह्मासि ।
त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि ।
ऋतं वदिष्यामि । सत्यं वदिष्यामि ।
तन्मामवतु । तद्वक्तारमवतु ।
अवतु माम् । अवतु वक्तारम् ॥२॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥३॥
ॐ शान्तिः शान्तिः शान्तिः॥
ॐ यश्छन्दसामृषभोविश्वरुपः। छन्दोभ्योऽध्यमृतात्संबभूव ।
स मेन्द्रो मेधया स्पृणोतु । अमृतस्यदेव ! धारणो भूयासम् ।
शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा ।
कर्णाभ्यां भूरि विश्रुवम् । ब्रह्मणः कोशोऽसि मेधयापिहितः ।
श्रुतं मे गोपाय ॥ॐ शान्तिः ! शान्तिः !! शान्तिः !!! ॥४॥
तैत्तिरीय उपनिषदातील (शीक्षावल्ली, अनुवाक ४)
ॐ अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव ।
ऊर्ध्वपवित्रो वाजिनीव स्वमूर्तमस्मि ।
द्रविणं सवर्चसम् । सुमेधा अमृतोक्षितः ।
इति त्रिशङ्कोर्वेदानुवचनम् ॥
ॐ शान्तिः ! शान्तिः !! शान्तिः !!! ॥४॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः ! शान्तिः !! शान्तिः !!! ॥५॥
ॐ आप्यायान्तु ममाङ्गानि वाक् प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मे अस्तु ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥
ॐ शान्तिः ! शान्तिः !! शान्तिः !!! ॥६॥
ॐ वाङ् मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् ।
आविरावीर्म एधि । वेदस्य म आणीस्थः ।
श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान् सन्दधामि ।
ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु तद्वक्तारमवतु ।
अवतु माम् अवतु वक्तारम् अवतु वक्तारम् ॥७॥
ॐ शान्तिः ! शान्तिः !! शान्तिः !!! ॥
ॐ भद्रं नो अपिवातय मनः ॥
ॐ शान्तिः ! शान्तिः !! शान्तिः !!! ॥८॥
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः ! शान्तिः !! शान्तिः !!! ॥९॥
ॐ यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ।
तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥
ॐ शान्तिः ! शान्तिः !! शान्तिः !!! ॥१०॥
ॐ नमो ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो वंशर्षिभ्यो महद्भ्यो नमो गुरुभ्यः ।
सर्वोपप्लवरहितः प्रज्ञानघनः प्रत्यगर्थो ब्रह्मैवाहमस्मि । ब्रह्मैवाहमस्मि ॥
ॐ नारायणं पद्मभवं वसिष्ठं शक्तिं च तत्पुत्रपराशरं च ।
व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम् ॥
श्रीशङ्कराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यम् ।
तं तोटकं वार्तिककारमन्यानस्मद्गुरून्संततमानतोऽस्मि ॥
श्रुतिस्मृतिपुराणानां आलयं करुणालयम् ।
नमामि भगवत्पादं शङ्करं लोकशङ्करम् ॥
शङ्करं शङ्कराचार्यं केशवं बादरायणम् ।
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनःपुनः ॥
ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने ।
व्योमवद्व्याप्तदेहाय दक्षिणामूर्तये नमः ॥
यैरिमे गुरुभिः पूर्वं पदवाक्यप्रमाणतः ।
व्याख्याता सर्ववेदान्तास्तान्नित्यं प्रणतोऽस्म्यहम् ॥
ॐ शान्तिः ! शान्तिः !! शान्तिः !!! ॥५॥
शान्तिपाठा नंतर आपल्या इष्टदेवतेचे थोडावेळ ध्यान करावे व नंतर इष्टदेवतेचा अथवा श्रीगुरुमंत्राचा कमीतकमी अकरा माळी जप करावा ।
