नील सरस्वती स्तोत्र
नील सरस्वती स्तोत्र
Neel Saraswati Stotra
घोर रूपे महारावे सर्वशत्रु भयंकरि ।
भक्तेभ्यो वरदे देवि त्राहि मां शरणा गतम् ॥१॥
ॐ सुरासुरार्चिते देवि सिद्धगन्धर्वसेविते ।
जाड्यपापहरे देवि त्राहि मां शरणा गतम् ॥२॥
जटाजूटसमायुक्ते लोलजिह्वान्तकारिणि ।
द्रुतबुद्धिकरे देवि त्राहि मां शरणा गतम् ॥३॥
सौम्यक्रोधधरे रूपे चण्डरूपे नमोSस्तु ते ।
सृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणा गतम् ॥४॥
जडानां जडता हन्ति भक्तानां भक्तवत्सला ।
मूढ़तां हर मे देवि त्राहि मां शरणा गतम् ॥५॥
वं ह्रूं ह्रूं कामये देवि बलिहोमप्रिये नम: ।
उग्रतारे नमो नित्यं त्राहि मां शरणागतम् ॥६॥
बुद्धिं देहि यशो देहि कवित्वं देहि देहि मे ।
मूढत्वं च हरेद्देवि त्राहि मां शरणा गतम् ॥७॥
इन्द्रा दिविलसद द्वन्द्ववन्दिते करुणा मयि ।
तारे ताराधिनाथास्ये त्राहि मां शरणा गतम् ॥८॥
अष्टभ्यां च चतुर्दश्यां नवम्या य: पठेन्नर: ।
षण्मासै: सिद्धिमा प्नोति नात्र कार्या विचारणा ॥९॥
मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां विद्यां तर्क व्याकरणा दिकम ॥१०॥
इदं स्तोत्रं पठेद्यस्तु सततं श्रद्धयाSन्वित: ।
तस्य शत्रु: क्षयं याति महा प्रज्ञा प्रजा यते ॥११॥
पीडायां वापि संग्रामे जाड्ये दाने तथा भये ।
य इदं पठति स्तोत्रं शुभं तस्य न संशय: ॥१२॥
इति प्रणम्य स्तुत्वा च योनि मुद्रा प्रदर्श येत ॥१३॥
॥ इति नीलसरस्वतीस्तोत्रं सम्पूर्णम् ॥
